Gita Explained
What You Put Your Faith In, painted in the Kangra miniature style

Chapter 17 of 18

What You Put Your Faith In

श्रद्धात्रयविभागयोगः

Śraddhā-traya-vibhāga Yoga · 28 verses

Arjuna asks about people who are sincere but do things their own way. Krishna answers that faith takes the colour of the person holding it, then runs the three strands through everything: what you eat, what you give, what you do without being asked.

Where this chapter leaves you

The three strands are applied to ordinary daily life, turning an abstract scheme into something you can notice at a dinner table.

The verses

Sanskrit complete · commentary in progress
  • 1

    ये शास्त्रविधिमुत्सृज्य यजन्ते श्रद्धयाऽन्विताः।तेषां निष्ठा तु का कृष्ण सत्त्वमाहो रजस्तमः॥

    Commentary not yet written.

  • 2

    त्रिविधा भवति श्रद्धा देहिनां सा स्वभावजा ।सात्त्विकी राजसी चैव तामसी चेति तां शृणु॥

    Commentary not yet written.

  • 3

    सत्त्वानुरूपा सर्वस्य श्रद्धा भवति भारत।श्रद्धामयोऽयं पुरुषो यो यच्छ्रद्धः स एव सः॥

    Commentary not yet written.

  • 4

    यजन्ते सात्त्विका देवान्यक्षरक्षांसि राजसाः।प्रेतान्भूतगणांश्चान्ये यजन्ते तामसा जनाः॥

    Commentary not yet written.

  • 5

    अशास्त्रविहितं घोरं तप्यन्ते ये तपो जनाः।दम्भाहङ्कारसंयुक्ताः कामरागबलान्विताः॥

    Commentary not yet written.

  • 6

    कर्षयन्तः शरीरस्थं भूतग्राममचेतसः।मां चैवान्तःशरीरस्थं तान्विद्ध्यासुरनिश्चयान्॥

    Commentary not yet written.

  • 7

    आहारस्त्वपि सर्वस्य त्रिविधो भवति प्रियः ।यज्ञस्तपस्तथा दानं तेषां भेदमिमं शृणु॥

    Commentary not yet written.

  • 8

    आयुःसत्त्वबलारोग्यसुखप्रीतिविवर्धनाः।रस्याः स्निग्धाः स्थिरा हृद्या आहाराः सात्त्विकप्रियाः॥

    Commentary not yet written.

  • 9

    कट्वम्ललवणात्युष्णतीक्ष्णरूक्षविदाहिनः।आहारा राजसस्येष्टा दुःखशोकामयप्रदाः॥

    Commentary not yet written.

  • 10

    यातयामं गतरसं पूति पर्युषितं च यत्।उच्छिष्टमपि चामेध्यं भोजनं तामसप्रियम्॥

    Commentary not yet written.

  • 11

    अफलाकाङ्क्षिभिर्यज्ञो विधिदृष्टो य इज्यते।यष्टव्यमेवेति मनः समाधाय स सात्त्विकः॥

    Commentary not yet written.

  • 12

    अभिसंधाय तु फलं दम्भार्थमपि चैव यत्।इज्यते भरतश्रेष्ठ तं यज्ञं विद्धि राजसम्॥

    Commentary not yet written.

  • 13

    विधिहीनमसृष्टान्नं मन्त्रहीनमदक्षिणम्।श्रद्धाविरहितं यज्ञं तामसं परिचक्षते॥

    Commentary not yet written.

  • 14

    देवद्विजगुरुप्राज्ञपूजनं शौचमार्जवम्।ब्रह्मचर्यमहिंसा च शारीरं तप उच्यते॥

    Commentary not yet written.

  • 15

    अनुद्वेगकरं वाक्यं सत्यं प्रियहितं च यत्।स्वाध्यायाभ्यसनं चैव वाङ्मयं तप उच्यते॥

    Commentary not yet written.

  • 16

    मनःप्रसादः सौम्यत्वं मौनमात्मविनिग्रहः।भावसंशुद्धिरित्येतत्तपो मानसमुच्यते॥

    Commentary not yet written.

  • 17

    श्रद्धया परया तप्तं तपस्तत्त्रिविधं नरैः ।अफलाकाङ्क्षिभिर्युक्तैः सात्त्विकं परिचक्षते॥

    Commentary not yet written.

  • 18

    सत्कारमानपूजार्थं तपो दम्भेन चैव यत्।क्रियते तदिह प्रोक्तं राजसं चलमध्रुवम्॥

    Commentary not yet written.

  • 19

    मूढग्राहेणात्मनो यत्पीडया क्रियते तपः।परस्योत्सादनार्थं वा तत्तामसमुदाहृतम्॥

    Commentary not yet written.

  • 20

    दातव्यमिति यद्दानं दीयतेऽनुपकारिणे।देशे काले च पात्रे च तद्दानं सात्त्विकं स्मृतम्॥

    Commentary not yet written.

  • 21

    यत्तु प्रत्युपकारार्थं फलमुद्दिश्य वा पुनः।दीयते च परिक्लिष्टं तद्दानं राजसं स्मृतम्॥

    Commentary not yet written.

  • 22

    अदेशकाले यद्दानमपात्रेभ्यश्च दीयते।असत्कृतमवज्ञातं तत्तामसमुदाहृतम्॥

    Commentary not yet written.

  • 23

    ॐतत्सदिति निर्देशो ब्रह्मणस्त्रिविधः स्मृतः ।ब्राह्मणास्तेन वेदाश्च यज्ञाश्च विहिताः पुरा॥

    Commentary not yet written.

  • 24

    तस्मादोमित्युदाहृत्य यज्ञदानतपःक्रियाः।प्रवर्तन्ते विधानोक्ताः सततं ब्रह्मवादिनाम्॥

    Commentary not yet written.

  • 25

    तदित्यनभिसन्धाय फलं यज्ञतपःक्रियाः ।दानक्रियाश्च विविधाः क्रियन्ते मोक्षकाङ्क्षिभिः॥

    Commentary not yet written.

  • 26

    सद्भावे साधुभावे च सदित्येतत्प्रयुज्यते।प्रशस्ते कर्मणि तथा सच्छब्दः पार्थ युज्यते॥

    Commentary not yet written.

  • 27

    यज्ञे तपसि दाने च स्थितिः सदिति चोच्यते।कर्म चैव तदर्थीयं सदित्येवाभिधीयते॥

    Commentary not yet written.

  • 28

    अश्रद्धया हुतं दत्तं तपस्तप्तं कृतं च यत्।असदित्युच्यते पार्थ न च तत्प्रेत्य नो इह॥

    Commentary not yet written.