Gita Explained
Where You Can See It, painted in the Kangra miniature style

Chapter 10 of 18

Where You Can See It

विभूतियोगः

Vibhūti Yoga · 42 verses

Arjuna asks where he should look to find the divine. Krishna answers with a long list: among mountains, the Himalaya; among rivers, the Ganges; among words, the single syllable. Wherever something is at its fullest, look there.

Where this chapter leaves you

The abstract becomes findable. Arjuna is given somewhere to rest his attention, which prepares him for what comes next.

The verses

Sanskrit complete · commentary in progress
  • 1

    भूय एव महाबाहो शृणु मे परमं वचः ।यत्तेऽहं प्रीयमाणाय वक्ष्यामि हितकाम्यया॥

    Commentary not yet written.

  • 2

    न मे विदुः सुरगणाः प्रभवं न महर्षयः।अहमादिर्हि देवानां महर्षीणां च सर्वशः॥

    Commentary not yet written.

  • 3

    यो मामजमनादिं च वेत्ति लोकमहेश्वरम्।असम्मूढः स मर्त्येषु सर्वपापैः प्रमुच्यते॥

    Commentary not yet written.

  • 4

    बुद्धिर्ज्ञानमसंमोहः क्षमा सत्यं दमः शमः।सुखं दुःखं भवोऽभावो भयं चाभयमेव च॥

    Commentary not yet written.

  • 5

    अहिंसा समता तुष्टिस्तपो दानं यशोऽयशः।भवन्ति भावा भूतानां मत्त एव पृथग्विधाः॥

    Commentary not yet written.

  • 6

    महर्षयः सप्त पूर्वे चत्वारो मनवस्तथा।मद्भावा मानसा जाता येषां लोक इमाः प्रजाः॥

    Commentary not yet written.

  • 7

    एतां विभूतिं योगं च मम यो वेत्ति तत्त्वतः।सोऽविकम्पेन योगेन युज्यते नात्र संशयः॥

    Commentary not yet written.

  • 8

    अहं सर्वस्य प्रभवो मत्तः सर्वं प्रवर्तते।इति मत्वा भजन्ते मां बुधा भावसमन्विताः॥

    Commentary not yet written.

  • 9

    मच्चित्ता मद्गतप्राणा बोधयन्तः परस्परम्।कथयन्तश्च मां नित्यं तुष्यन्ति च रमन्ति च॥

    Commentary not yet written.

  • 10

    तेषां सततयुक्तानां भजतां प्रीतिपूर्वकम्।ददामि बुद्धियोगं तं येन मामुपयान्ति ते॥

    Commentary not yet written.

  • 11

    तेषामेवानुकम्पार्थमहमज्ञानजं तमः।नाशयाम्यात्मभावस्थो ज्ञानदीपेन भास्वता॥

    Commentary not yet written.

  • 12

    परं ब्रह्म परं धाम पवित्रं परमं भवान्।पुरुषं शाश्वतं दिव्यमादिदेवमजं विभुम्॥

    Commentary not yet written.

  • 13

    आहुस्त्वामृषयः सर्वे देवर्षिर्नारदस्तथा।असितो देवलो व्यासः स्वयं चैव ब्रवीषि मे॥

    Commentary not yet written.

  • 14

    सर्वमेतदृतं मन्ये यन्मां वदसि केशव ।न हि ते भगवन्व्यक्तिं विदुर्देवा न दानवाः॥

    Commentary not yet written.

  • 15

    स्वयमेवात्मनाऽत्मानं वेत्थ त्वं पुरुषोत्तम।भूतभावन भूतेश देवदेव जगत्पते॥

    Commentary not yet written.

  • 16

    वक्तुमर्हस्यशेषेण दिव्या ह्यात्मविभूतयः।याभिर्विभूतिभिर्लोकानिमांस्त्वं व्याप्य तिष्ठसि॥

    Commentary not yet written.

  • 17

    कथं विद्यामहं योगिंस्त्वां सदा परिचिन्तयन्।केषु केषु च भावेषु चिन्त्योऽसि भगवन्मया॥

    Commentary not yet written.

  • 18

    विस्तरेणात्मनो योगं विभूतिं च जनार्दन ।भूयः कथय तृप्तिर्हि शृण्वतो नास्ति मेऽमृतम्॥

    Commentary not yet written.

  • 19

    हन्त ते कथयिष्यामि दिव्या ह्यात्मविभूतयः।प्राधान्यतः कुरुश्रेष्ठ नास्त्यन्तो विस्तरस्य मे॥

    Commentary not yet written.

  • 20

    अहमात्मा गुडाकेश सर्वभूताशयस्थितः।अहमादिश्च मध्यं च भूतानामन्त एव च॥

    Commentary not yet written.

  • 21

    आदित्यानामहं विष्णुर्ज्योतिषां रविरंशुमान्।मरीचिर्मरुतामस्मि नक्षत्राणामहं शशी॥

    Commentary not yet written.

  • 22

    वेदानां सामवेदोऽस्मि देवानामस्मि वासवः।इन्द्रियाणां मनश्चास्मि भूतानामस्मि चेतना॥

    Commentary not yet written.

  • 23

    रुद्राणां शङ्करश्चास्मि वित्तेशो यक्षरक्षसाम्।वसूनां पावकश्चास्मि मेरुः शिखरिणामहम्॥

    Commentary not yet written.

  • 24

    पुरोधसां च मुख्यं मां विद्धि पार्थ बृहस्पतिम्।सेनानीनामहं स्कन्दः सरसामस्मि सागरः॥

    Commentary not yet written.

  • 25

    महर्षीणां भृगुरहं गिरामस्म्येकमक्षरम्।यज्ञानां जपयज्ञोऽस्मि स्थावराणां हिमालयः॥

    Commentary not yet written.

  • 26

    अश्वत्थः सर्ववृक्षाणां देवर्षीणां च नारदः।गन्धर्वाणां चित्ररथः सिद्धानां कपिलो मुनिः॥

    Commentary not yet written.

  • 27

    उच्चैःश्रवसमश्वानां विद्धि माममृतोद्भवम्।ऐरावतं गजेन्द्राणां नराणां च नराधिपम्॥

    Commentary not yet written.

  • 28

    आयुधानामहं वज्रं धेनूनामस्मि कामधुक्।प्रजनश्चास्मि कन्दर्पः सर्पाणामस्मि वासुकिः॥

    Commentary not yet written.

  • 29

    अनन्तश्चास्मि नागानां वरुणो यादसामहम् ।पितॄणामर्यमा चास्मि यमः संयमतामहम्॥

    Commentary not yet written.

  • 30

    प्रह्लादश्चास्मि दैत्यानां कालः कलयतामहम्।मृगाणां च मृगेन्द्रोऽहं वैनतेयश्च पक्षिणाम्॥

    Commentary not yet written.

  • 31

    पवनः पवतामस्मि रामः शस्त्रभृतामहम्।झषाणां मकरश्चास्मि स्रोतसामस्मि जाह्नवी॥

    Commentary not yet written.

  • 32

    सर्गाणामादिरन्तश्च मध्यं चैवाहमर्जुन।अध्यात्मविद्या विद्यानां वादः प्रवदतामहम्॥

    Commentary not yet written.

  • 33

    अक्षराणामकारोऽस्मि द्वन्द्वः सामासिकस्य च।अहमेवाक्षयः कालो धाताऽहं विश्वतोमुखः॥

    Commentary not yet written.

  • 34

    मृत्युः सर्वहरश्चाहमुद्भवश्च भविष्यताम्।कीर्तिः श्रीर्वाक्च नारीणां स्मृतिर्मेधा धृतिः क्षमा॥

    Commentary not yet written.

  • 35

    बृहत्साम तथा साम्नां गायत्री छन्दसामहम्।मासानां मार्गशीर्षोऽहमृतूनां कुसुमाकरः॥

    Commentary not yet written.

  • 36

    द्यूतं छलयतामस्मि तेजस्तेजस्विनामहम्।जयोऽस्मि व्यवसायोऽस्मि सत्त्वं सत्त्ववतामहम्॥

    Commentary not yet written.

  • 37

    वृष्णीनां वासुदेवोऽस्मि पाण्डवानां धनंजयः।मुनीनामप्यहं व्यासः कवीनामुशना कविः॥

    Commentary not yet written.

  • 38

    दण्डो दमयतामस्मि नीतिरस्मि जिगीषताम्।मौनं चैवास्मि गुह्यानां ज्ञानं ज्ञानवतामहम्॥

    Commentary not yet written.

  • 39

    यच्चापि सर्वभूतानां बीजं तदहमर्जुन।न तदस्ति विना यत्स्यान्मया भूतं चराचरम्॥

    Commentary not yet written.

  • 40

    नान्तोऽस्ति मम दिव्यानां विभूतीनां परंतप।एष तूद्देशतः प्रोक्तो विभूतेर्विस्तरो मया॥

    Commentary not yet written.

  • 41

    यद्यद्विभूतिमत्सत्त्वं श्रीमदूर्जितमेव वा।तत्तदेवावगच्छ त्वं मम तेजोंऽशसंभवम्॥

    Commentary not yet written.

  • 42

    अथवा बहुनैतेन किं ज्ञातेन तवार्जुन।विष्टभ्याहमिदं कृत्स्नमेकांशेन स्थितो जगत्॥

    Commentary not yet written.